बास्केटबॉल पर संस्कृत निबंध (Essay on Basketball in Sanskrit) हस्तपाद कंदुकम्(Basketball) एका प्रसिद्धा कन्दुकक्रीडा वर्तते। वर्तमानसमये बास्केटबॉल क्
बास्केटबॉल पर संस्कृत निबंध (Essay on Basketball in Sanskrit)
बास्केटबॉल पर संस्कृत निबंध: हस्तपाद कंदुकम्(Basketball) एका प्रसिद्धा कन्दुकक्रीडा वर्तते। वर्तमानसमये बास्केटबॉल क्रीडा सर्बियादेशस्य राष्ट्रियक्रीडा वर्तते। बास्केटबॉल-क्रीडा द्वयोदलयोर्मध्ये सम्पद्यते। अस्यां क्रीडायां प्रतिदलं पञ्च पञ्च क्राडका भवन्ति। क्रीडाक्षेत्राद् बहिः प्रतिदलमन्ये सप्त-सप्त क्रीडका अपि परिवर्तनाय प्रतिनिधिरुपेण सथाप्यन्ते येषां यथासमयं क्रमेण कन्दुकस्य बहिर्गमनात् परं परिवर्तनं कर्तुं शक्यते। प्रतिदलं क्रीडकानां वस्त्रोपवस्त्रे भिन्न-भिन्नवर्णमये भवतः। यथोचितं क्रमाङ्का अपि वक्षसि पृष्ठे वाऽङ्किता भवन्ति यतः केन किं कृतमिति ज्ञानं सुकरं भवेत्। क्रीडक-नियमाः कस्यापि क्रीडार्थिनः क्रीडाङ्गणे सञ्चालकस्याज्ञां विना प्रवेष-निर्गमौ न भवतः। दलनायकः कस्या अपि समस्यायाः समाधानाय सञ्चलकेनालपितुं प्रभवति। विरोधिभ्यः साक्षात कथनं नोचितम्। सत्यां त्रुटौ हस्तावुत्थाय त्रुटिः स्वीकार्या। कन्दुकस्य बहिर्गमनकाले, क्रीडकस्य स्थाने परिवर्तनं क्रियते तस्य क्रमसंख्या गणकाय सूच्यते परिवर्तितश्च २० मिनटाभ्यन्तर एव क्षेत्रमागच्छेत्।
इयं क्रीडा २०-२० मिनटानां द्वाभ्यामर्धाभ्यां तथा १० मिनटानां विश्रामेण सम्पद्यते। क्रीडायाः सञ्चालको मुद्रामुच्छाल्य दलस्य क्रीडस्थलाय दिशश्चयनं कारयति तत्र दलनायकावधिकुरुतः। क्रीडारम्भाय सञ्चालकः कन्दुकं क्रीडाङ्गण- मध्यवृत्तादुच्छालयति तथा द्वौ विपक्षक्रीडकौ कन्दुकं बलाद् गृह्णीतः। करण्डक-कन्दुक- क्रीडा तीव्र-गत्या क्रीडनीया क्रीडा विद्यते, अतः प्रत्येकं क्रीडकेन पूर्वं नियमानां दृढोऽभ्यासः कर्तव्यः।
अस्याः क्रीडाया विकासे 'वाई.एम.सी.ए.‘स्प्रिंगफील्ड्’ स्थिते "शारीरिक शिक्षा-महाविद्यालये’ श्रीनाथस्मिथ-द्वारा सन् १८६१ वत्सरेऽक्रियत। १८६४ वर्षे तत्र प्रथमं सङ्घस्य स्थापनाऽभूता । १६०८ तमे वर्षे राष्ट्रियसङ्घस्योदयानन्तरं नियमाः स्वीकृताः १६३२ तमे हायने च सर्वतः प्रथमं प्रतियोगिताऽजायत। क्रमेण विश्वक्रीडाप्रतिस्पर्धासु स्थानं सम्प्राप्य १६५० तमे वर्षे विश्वक्रीडा-नायकताऽप्यारभत। भारते क्रीडेयं १६३० ई.तः प्रारब्धा विकसिता च सती लोकप्रियतां प्राप्नोत्। १६५० ई.वर्षे बालसङ्घस्य स्थापनाऽभूत्। साम्प्रतं विद्यालयेषु महाविद्यालयेषु च बालका बालिका वा पूर्णया रुच्या खेलन्ति। स्वल्पेन समयेन स्वल्पे क्रीडाक्षेत्रे स्वल्पैः साधनैः कौतूहलं वर्धयन्तीयं क्रीडा शरीरस्य सर्वेषामङ्गानां विकासाय पुष्टये च महत्त्वपूर्णा विद्यते।
COMMENTS