हनुमान जयंती पर संस्कृत निबंध (Essay on Hanuman Jayanti in Sanskrit) चैत्रमासे एव रामनवम्याः अनन्तरम् आचर्यते हनुमान जयंती। भक्तजनप्रियः बुधजनप्रियः
हनुमान जयंती पर संस्कृत निबंध (Essay on Hanuman Jayanti in Sanskrit)
हनुमान जयंती पर संस्कृत निबंध: चैत्रमासे एव रामनवम्याः अनन्तरम् आचर्यते हनुमान जयंती। भक्तजनप्रियः बुधजनप्रियः बहुजनप्रियः च हनुमान् आञ्जनेयः, मारुतिः, महावीरः, प्राणदेवः इत्यादिभिः बहुभिः नामभिः सुप्रसिद्धः अस्ति। भारते विभिन्नेषु प्रदेशेषु विभिन्नेषु दिनेशु आचर्यते हनुमान जयंती। कुत्रचित् चैत्रमासस्य शुक्लपक्षस्य पूर्णिमादिने आचर्यते चेत् कुत्रचित् कार्त्तिकमासस्य कृष्णपक्षस्य चतुर्दशीदिने आचर्यते। कुत्रचित् च मार्गशीर्षमासस्य शुक्लपक्षस्य त्रयोदशीदिने आचर्यते।
तद्दिने व्रतम् आचर्यमाणाः दिनपूर्णम् उपवासम् आचरन्ति। पूर्णतया उपवासकरणे अश्क्ताः फल-मूल-क्षीरादीनि सात्त्विकद्रव्याणि सेवन्ते। रात्रौ श्रीरामस्य पूजां कृत्वा दासश्रेष्ठस्य आञ्जनेयस्य पूजां कुर्वन्ति। चणक-गुडनिर्मितं नैवेद्यं समर्पयन्ति। पञ्चोपचार-षोडशोपचारयुतायां पूजायां विशेषेण आञ्ज्नेयस्य कृते पञ्चामृताभिषेकं कुर्वन्ति। पञ्चप्राणस्वरूपः अयं देवः अभिषेकप्रियः। रात्रौ सङ्गीतनृत्यकर्यक्रमाः आयोज्यन्ते। समग्रे ग्रामे शोभायात्रा भवति। कुत्रचित् मल्लविद्यायाः प्रदर्शनम् अपि भवति। केचन रात्रिपूर्णं जागरणम् अपि कुर्वन्ति। सर्वत्र रामायणस्य सुन्दरकाण्डस्य पारायणं प्रचलति। सुन्दरकाण्डं “हनुमद्विजयः” इत्येव प्रसिद्धम्।
रामायणे हनुमता कृतानि समुद्रलङ्घनं, सीतान्वेषणं, राक्षसनिग्रहः, लङ्कादहनं, पर्वतानयनम् इत्यादीनि साहसकार्याणि अत्यन्तं रोचकाणि। हनुमतः मन्दिरं प्रतिग्रामं भवत्येव। जगतः प्रथमः सेवकः हनुमान्। “हनुमान् दास्ये च सखेऽर्जुनः” इत्येव प्रसिद्धम्।
"बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगिता।अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणात् भवेत् ॥"
इत्ययं श्लोकः हनुमतः स्मरणमात्रेण बुद्धिः, बलं, यशः, धैर्यं, निर्भयत्वम्, अरोगिता, वाक्पटुत्वं च प्राप्यते इति वदति । हनुमान् सप्तचिरञ्जीविषु अन्यतमः अपि।
"अश्वत्थामा बलिर्व्यासः हनूमांश्च विभीषणः।कृपः परशुरामश्च सप्तैते चिरञ्जीविनः॥"
COMMENTS