पर्यावरण संरक्षण पर संस्कृत भाषा में निबंध लिखिए। Write Essay on Save Environment in Sanskrit Language. Paryavaran Sanrakshan Nibandh in ...
पर्यावरण संरक्षण पर संस्कृत भाषा में निबंध लिखिए। Write Essay on Save Environment in Sanskrit Language. Paryavaran Sanrakshan Nibandh in Sanskrit
Sanskrit Essay on Save Environment / Paryavaran Sanrakshan, "पर्यावरण संरक्षण पर संस्कृत निबंध" for Class 5, 6, 7, 8, 9 & 10
पर्यावरणस्य रक्षणोपाया: निबंध
परित: आवृणोति ,इति पर्यावरणम् ,अनया व्युत्पत्या: पर्यावरण' शब्दो निष्पद्यते। मनुष्य: यत्रापि निवसति,यत्रापि खेलति,खादति,वस्त्राणि धारयति,पिबति ,वायोश्च सेवनं करोति,एतत् सर्वं पर्यावरणे निलीयते । पर्यावरणम् एतत् अस्मत् प्रकृत्या प्रदत्तं वर्तते । यत् अस्माकं सर्वेषां प्राणतत्त्वस्य रक्षां करोति।
सर्वेषां प्राणिनां विकासाय अस्य पर्यावरणस्य शुद्धिःआवश्यिकी अस्ति । यतोहि स्वस्थं पर्यावरणं अस्माकं सर्वेषां जीवनस्य आधारोऽस्ति । सर्वे हरिता: वृक्षा: लताश्च आक्सीजनंदत्वा पर्यावरणस्य शुद्धिं कुर्वन्ति। ते खलु मानवै: वातावरणे परित्यक्तानि सर्वाणि दूषणानि उदरस्था: कुर्वन्ति । यतोहि एते वृक्षा: 'कार्बनडाई आक्साइड' नामकं तत्त्वं वायुत: गृह्णन्ति आक्सीजन'नामकं तत्त्वं विसृजन्ति । अनेन प्रकारेण अस्माकं पर्यावरणं स्वस्थं भवति।
एवमेव सागरा: पर्वता:,वनानि,नद्यः,सरांसि,सर्वाणि एतानि जगत: प्राणिनां सर्वेषां कृते सुखानि संवर्धयन्ति । अस्मिन् संसारे ये प्राणिन: जीव-जन्तवश्च सन्ति , सर्वेऽपि ते अस्माकं पर्यावरणे सन्तुलनं स्थापयितुं भगवता निर्मिता:,किन्तु अद्यत्वे मानवै: स्वसुखाय अनेका: आविष्कारा:कृता: विद्यन्ते,तै: पर्यावरणम् अस्माकं प्रदूषितं क्रियते । यथा सम्प्रति तैलचलितानि यानानि स्वकीयैः धूमै: स्वस्थमपि वायुमण्डलम् अत्यधिकं प्रदूषयन्ति । अत: अस्माकं वायुमण्डले प्रतिक्षणं प्रदूषणं वर्धते। वनानि विच्छिद्य मानव: स्वगृहनिर्माणं करोति। अत: वृक्षाणाम् अभावे वातावरणम् अस्माकं दूषितं भवति ,एवमेव अस्त्राणाम् परीक्षणैः समुद्रस्य वातावरणं प्रदूष्यते।
वस्तुत: मानवा: स्वस्य अल्पलाभाय अज्ञानवशात् स्वकीयं बहु विनाशं कुर्वन्ति । वनप्राणिनां स्वमनोविनोदाय किंवा धनलाभाय हिंसा करोति मनुष्यः । अनेन प्रकारेण जले स्थले वने गगने सर्वत्रैव प्रदूषणं वर्धते। अनेन अस्माकं सर्वेषां जीवनं असुरक्षितं सञ्जायते। मलमूत्रप्रणालीनां तैलशोधक रसायनानां प्रदूषितेन जलेन कूपनदीतडागादीनां जलराशि: विषयुक्ता सजाता ,तेन जलेन मानवेषु अनेका: रोगा: जायन्ते।
अत: स्वहिताय अस्माभिः स्वपर्यावरणस्य शुद्धिं प्रति जागरूक: भवितव्यः । अस्य पर्यावरणस्य शुद्धिकरणाय केचित् उपाया: कर्तव्याः। तेषु एते प्रमुखतां भजन्ते। जनै: कदापि यत्र तत्र ठीवनं मलमूत्रप्रक्षेपणं न कर्तव्यम्। अस्माकं गृहेषु बहिश्च स्थित्या: प्रणाल्य:स्वच्छा: भवेयुः ,सर्वैः जनै: यत्रापि रिक्तं स्थानं तत्र वृक्षारोपणम् अधिकाधिकं करणीयम् । ये जनाः वृक्षान् छिन्दन्ति तेषां कृते दण्डव्यवस्था भवितव्या । महानगरेषु मार्गाणां मध्ये हरितवृक्षाणां लतानां च विकास: कर्तव्यः। यतोहि एते पुष्पफलानाम् औषधीनां च दातार: भवन्ति । ते अस्माकं आक्सीजन नामकं जीवनदायकं तत्त्वं ददति।
प्राचीनकाले अस्माकं पूर्वजा: पर्यावरणस्य शुद्धतायै उपवनानां आरोपणं कुर्वन्ति स्म । वातावरणस्य च शुद्धिकरणाय तै: यज्ञानाम् अनुष्ठानमपि क्रियते स्म । अत: अस्मभि: अपि ता: एव सरणि: स्वीकरणीया । वृक्षाणाम् अभावे अपेक्षिता वृष्टि: न भवति । अनेन अनावृष्टि: जायते ,या सर्वेषां कृते हानिप्रदा अस्ति , यतोहि अनावृष्ट्या कृषिकार्यं बाधते।
अन्यञ्च अस्माभि: तैलचलितानां यानानां प्रयोग: अल्पाल्परूपेण कर्तव्य: ,यतोहि तै: प्रदूषणम् सर्वाधिकं वर्धते। वायो: शुद्ध्यर्थं सर्वैः जनै: हवनादिकम् अपि प्रात: सायंतने च काले करणीयम्। अस्माकं सर्वेषां समीपे यदपि प्रदूषणं तत् प्रयत्नपूर्वकं दूरीकर्तव्यम्। अनेन् प्रकारेणैव अस्माकं पर्यावरणस्य शुद्धिः भविष्यति , वयं च सर्वे स्वस्था: भविष्यामः ।
COMMENTS