Samvad Lekhan in Sanskrit Examples : In this article, we are providing Examples of Samvad Lekhan / Dialogue Writing Between two friends...
Samvad Lekhan in Sanskrit Examples : In this article, we are providing Examples of Samvad Lekhan / Dialogue Writing Between two friends in Sanskrit for class 5, 6, 7, 8, 9 and 10.
Samvad lekhan in Sanskrit Example - 1
सुशीला
- सखि ! तव किं नाम अस्ति ?
विमला
- मम नाम विमला अस्ति। सखि
! तव किं नाम अस्ति ?
सुशीला
- मम नाम सुशीला अस्ति।
विमला
- त्वं कुत्र वससि ?
सुशीला -
अहं रायपुर आख्ये नगरे वसामि। त्वं च ?
विमला
- अहं बिलासपुर आख्ये नगरे वसामि।
सुशीला
- तव पितुः किं नाम अस्ति ?
विमला
- मम पितुः नाम श्री सुशीलकुमारः अस्ति। तव
पितुः नाम ?
सुशीला
- मम पितुः नाम चन्द्रकुमारः अस्ति।
विमला
- तव पिता किं कार्यं करोति ?
सुशीला
- मम पिता कृषिकार्यं करोति। तव पिता ?
विमला
- मम पिता अध्यापकः अस्ति।
सुशीला
- मम एका अग्रजा अस्ति। तव ?
विमला
- मम द्वौ अनुजौ स्तः। अग्रजा न अस्ति।
सुशीला
- तव माता कीदृशी अस्ति ?
विमला
- मम माता अति सरला अस्ति। तव माता ?
सुशीला
- मम मातुः स्वभावः सरलः मधुरः च अस्ति।
Samvad lekhan in Sanskrit Example - 2
प्रमोदः - मित्र सुबोध ! चित्रे किं दृश्यते ?
सुबोधः - मित्र प्रमोद ! चित्रे एको ध्वजो दृश्यते ।
प्रमोदः - मित्र ! अयं कस्य देशस्य ध्वजः अस्ति ?
सुबोधः - मित्र ! अयम् अस्माकं राष्ट्रस्य भारतस्य ध्वजः अस्ति। अतः राष्ट्रध्वजः कथ्यते।
प्रमोदः - मित्र सुबोध ! ज्ञातं मया । किमयमेव राष्ट्रध्वजः अस्माकं देशे 'तिरंगा' इति नाम्ना प्रसिद्धि प्राप्तः ?
सुबोधः - अथ किं मित्र प्रमोद ! अस्मिन् ध्वजे त्रयोरंगाः वर्णाः वा सन्ति । अतः 'तिरंगा' कथ्यते ।
प्रमोदः - मित्र ! अत्र त्रिपट्टिकाः दृश्यते ! तासु त्रीन् वर्णान् पश्यामि । उपरितनः पिण्याकवर्णः (केसरवर्णः) दृश्यते। अयं कस्य भावस्य प्रतीकः वर्तते ।
सुबोधः - मित्र ! पिण्याकवर्णः (केसरवर्णः) त्यागस्य, जागरणस्य, शौर्यस्य च प्रतीको अस्ति ।
प्रमोदः - मित्र ! श्वेतपट्टिकायाः वर्णः कं भावं द्योतयति ।
सुबोधः - मध्यस्थितायाः श्वेतपट्टिकायाः वर्णः सत्यं निर्मलतां च द्योतयति ।
प्रमोदः - मित्र ! अधः स्थितायाः हरितपट्टिकायाः वर्णः कं भावं प्रदर्शयति ?
सुबोधः - मित्र ! अधो भागे विद्यमानायाः हरितपट्टिकायाः वर्णः जीवनसमृद्धिं सुखं च प्रदर्शयति ।
प्रमोदः - मित्र ! अहं श्वेतपट्टिकायाम् एकं चक्रमपि पश्यामि । किञ्च द्योतयति?
सुबोधः - मित्र ! इदम् अशोकचक्रमस्ति एतत् चक्रं गतिशीलतां द्योतयति । राष्ट्रीयपर्वसु राष्ट्रध्वजारोहणं क्रियते । अस्माकं प्रधानमंत्री प्रत्येकमगस्त मासस्य पञ्चदशतारिकायां देहल्याः रक्तदुर्गात् राष्ट्रध्वजोत्तोलनं करोति ।
प्रमोदः - मित्र सुबोध ! अवगतं राष्ट्रध्वजस्य महत्वम् । अयं राष्ट्रध्वजोऽस्माकं सर्वेषां भारतीयानाम् आदरभाजनम् । अयं सर्वेषां भारतीयानां वन्दनीयः ।
सुबोध प्रमोदः च राष्ट्रध्वजं श्रद्धया नमतः स्वगृहम् च गच्छतः ।
COMMENTS