My School Sanskrit Essay : In this article, We are providing मम विद्यालय - अस्माकं विद्यालय संस्कृत निबंध for class 4, 5, 6, 7, 8, 9, 1...
My School Sanskrit Essay : In this article, We are providing मम विद्यालय - अस्माकं विद्यालय संस्कृत निबंध for class 4, 5, 6, 7, 8, 9, 10, 11 and 12. Students can Use This Long Essay on My School in Sanskrit Language to complete their homework.
मम विद्यालय - अस्माकं विद्यालय संस्कृत निबंध / My School Sanskrit Essay
असारेऽस्मिन् संसारे सारभूतं वस्तु विद्यैव वर्तते। विद्यालय: विद्याया: केन्द्रं भवति। मम विद्यालय: नगरादविदूरे वर्तते। विद्यालयं परित: एका दृढाभित्ति: विरचिता अस्ति। मुख्यद्वारेण प्रवेश काले वाटिकाया: सुमनोहराणि सुमनानि उभयतः भवतां स्वागतं कुर्वन्ति। अस्य वातावरणम् अतीव मनोहरम् अस्ति। सर्वत: शुद्धः वायु: वहति। Read also : मम विद्यालय संस्कृत में निबंध
द्वार समीपे प्रधानाचार्यस्य कार्यालयः लिपिकानां च कार्यालय: स्थितोऽस्ति। समीपे एवं पुस्तकालयोऽपि वर्तते। अस्मिन् पुस्तकालये नाना विषयाणां पुस्तकानि सन्ति। छात्रा: तानि अधीत्य विविध-विषयं ज्ञानम् अर्जयन्ति। विद्यालयस्य उत्तरस्यां दिशि एक: वाचनालय: अपि वर्तते। विद्यालये भवने सप्तति कक्षाः सन्ति। सर्वेषु कक्षेषु श्यामपटा: सुधालेखिन्यश्च उपस्थिता: सन्ति।
पञ्चशतोत्तर सहस्रछात्रा: प्रतिवर्षम् अत्र विद्यलाभं कुर्वन्ति। अस्मिन विद्यालये नवति अध्यापका: पाठयन्ति। ते अध्यापका: अति निपुणा: गुणिनश्च सन्ति। मम विद्यालये द्वारपाल: मार्जक: जलपाययिता तथा च अन्ये बहवः कार्यकर्तारः सन्ति। ते स्व-स्व कार्ये विद्यालयस्य सेवां कुर्वन्ति। अस्माकं विद्यालयस्य प्रधानाचार्य अनुशासन प्रिय: सन् कठोर: अपि, शिष्याणां सर्वदा हित चिन्तनेन स्नेहस्य मूर्तिरिव प्रतिभाति। Read also : मम पाठशाला संस्कृत निबंध
अस्मिन् विद्यालये हिन्दी भाषा, संस्कृत भाषा, आंगल भाषा, विज्ञानम्, गणितम्, अर्थशास्त्रम्, इतिहासम्, समाजशास्त्रम्, आदय: अनेके विषया: पाठ्यन्ते। अस्य विद्यालयस्य परीक्षाफलं शत प्रतिशतं भवति। अत्र केवलं पाठ्य विषयाः एव न पाठ्यन्ते अपितु अन्तरे अन्तरे शारीरिकी शिक्षा, नैतिक शिक्षा अपि च प्रदीयते।
मम विद्यालयस्य छात्रा: क्रीडायां, भाषणे, देशे सेवायाम् अपि उत्कृष्टा: सन्ति। एवं मम विद्यालयस्य ख्याति निकट वर्तिभ्य विद्यालयेभ्य: सर्वाधिकम अस्ति।
COMMENTS