Essay on Cow in Sanskrit : Cow are the most common type of large domesticated animals. In this article we are providing गाय अर्थात धेनु पर...
Essay on Cow in Sanskrit : Cow are the most common type of large domesticated animals. In this article we are providing गाय अर्थात धेनु पर संस्कृत में निबंध. Students and teacher can use this Long essay on Cow in Sanskrit to write small essay on 10 line on Cow in sanskrit.
गाय पर संस्कृत में निबंध - Essay on Cow in Sanskrit
गौः अस्माकं देशस्य सर्वश्रेष्ठ: पशुः अस्ति। गौ: मनुष्याणां महान्तम् उपकारं करोति । इयं देवरूपा मातृतुल्या कल्याणकारिणी च अस्ति । गौः भारतस्य सर्वेषु प्रान्तेषु प्राप्यते। अस्याः द्वे श्रृंगे, पृष्ठे लम्बमानं पुच्छं, द्विविभक्ता: चत्वारः खुरा: भवन्ति ।अस्या: ग्रीवाया: अधोभागे गलकम्बलं भवति । गाव: विविधवर्णाः भवन्ति।
गौः स्वयं घासं बुसं च खादति परं मानवेभ्य: अमृतोपमं सुमधुरं दुग्धं यच्छति। सर्वे मनुष्या: गवां दुग्धं पिबन्ति । गोदुग्धम् अतीव पवित्रं भवति । गवां दुग्धं सुपाच्यं हितकरं स्वास्थ्यकरं च भवति। अस्या: दुग्धेन नवनीतं, तक्रं, घृतं, दधि तथा अनेक विधानि मिष्ठान्नानि रचयाम: । न केवलं दुग्धम् एव अपितु अस्याः मूत्रं मलश्चापि अति हितकरौ । वैद्यैः गौमूत्रम् औषधि रूपेण प्रयुज्यते । गोमूत्रेण उदर रोगा: नश्यन्ति । तस्य गोमयेन मानवा: गृहाणि उपलिप्यन्ते । गोमयेन भूमे: उर्वरा शक्ति वर्धते, इन्धनकार्यं च विधीयते । मृतायां गो चर्मणा उपानहादिकम् निर्मीयते। अस्या: अस्थिभ्यः खादं विधीयते ।
गौः सुता: एव वृषभाः भवन्ति । वृषभा एव कृषि कर्मणि कृषकानां सहायतां कुर्वन्ति । ते क्षेत्रे हलान् कर्षन्ति, भारं वहन्ति, रथान् चालयन्ति । वृषभा: अपि हिन्दुभि: पूज्यन्ते, यत् एष शिवस्य वाहनम् अस्ति । एवं गौः अस्माकं अति उपकारं करोति । यथा माता स्वसुतं पालयति रक्षति च तथैव गौ अस्मान् पालयति रक्षति च। सा मातेव पूजनीया भवति । उक्तं च
मातरः सर्वभूतानां गावः, सर्वसुख प्रदाः।
प्राचीन कालादेव भारतवर्षे गवां विशिष्टं महत्वम् अस्ति । दिलीप: गोसेवां कृत्वा पुत्रं लब्धवान् । श्रीकृष्ण: स्वयं गौः अचारयत् । गो: चारणेन कृष्ण: 'गोपाल': कथ्यते । यद्यपि भारत विधाने गोहत्या निषद्धा: तथापि अद्यापि अस्माकं देशे गोहत्या भवति । गवां पालने पोषणे च वयं उचितं ध्यानं न यच्छाम: इति खेदस्य विषयः। मदीया अभिलाषा अस्ति, यत्
गावो मे अग्रत: सन्तु, गावो मे सन्तु पृष्ठतः।
गावो मे सर्वत: सन्तु गवां मध्ये वसाम्यहम ॥
COMMENTS