Essay on Women in Sanskrit - नारी पर संस्कृत निबंध : संसाररथस्य हे चक्रे स्तः। नरः च नारी च। उभयोः अपि समानं महत्त्वम्। नारीं विना नरः संसाररथं चालयितुं न समर्थः। नरं विना नारी अपूर्णा तथा नारीं विना नरोऽपि अपूर्णः। प्राचीनकाले स्त्रीणां महत्त्वम् अधिकम् आसीत्। वैदिककाले तासां स्थानं गौरवपूर्णम् आसीत्। नारी 'देवी' रूपेण सर्वे: मानिता। न केवलं प्राचीनकाले, आधुनिकाले अपि नारीणां सम्मानं सर्वेषां कर्त्तव्यम्। परिवहन निगमेनापि बसयानेषु स्त्रीणामासनानि निश्चितानि कृतानि। शिक्षासंस्थायां कन्याणां पदानि आरक्षितानि। किं बहुना संसदेषु अपि महिलानां 33% पदानि आरक्षितानि। एवं शासनेन महिलानाम् अधिकाराय उचिता: प्रयत्ना: कृताः।
Essay on Women in Sanskrit - नारी पर संस्कृत निबंध
संसाररथस्य हे चक्रे स्तः। नरः च नारी च। उभयोः अपि समानं महत्त्वम्। नारीं विना नरः संसाररथं चालयितुं न समर्थः। नरं विना नारी अपूर्णा तथा नारीं विना नरोऽपि अपूर्णः।
प्राचीनकाले स्त्रीणां महत्त्वम् अधिकम् आसीत्। वैदिककाले तासां स्थानं गौरवपूर्णम् आसीत्। नारी 'देवी' रूपेण सर्वे: मानिता। न केवलं प्राचीनकाले, आधुनिकाले अपि नारीणां सम्मानं सर्वेषां कर्त्तव्यम्। परिवहन निगमेनापि बसयानेषु स्त्रीणामासनानि निश्चितानि कृतानि। शिक्षासंस्थायां कन्याणां पदानि आरक्षितानि। किं बहुना संसदेषु अपि महिलानां 33% पदानि आरक्षितानि। एवं शासनेन महिलानाम् अधिकाराय उचिता: प्रयत्ना: कृताः। यस्मिन् देशे नारीणां सम्मानं भवति, सः देशः उन्नतिं गच्छति। यत्र तासाम् आदरः क्रियते तत्र सुखं, शान्तिश्च भवति। अतः उक्तम्-
'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः’
परिवारे गृहिण्याः स्थानं सर्वोच्चमस्ति। सा एव परिवारस्य सर्वेषां सदस्यानां चिन्तां करोति। सा अर्थार्जनमपि करोति, गृहकार्यंमपि करोति। नारी पत्नीरूपेण मातारूपेण, भगिनीरूपेण सर्वेषां कर्तव्यानां पालनं करोति। यस्मिन् गृहे नारी न भवति, तद्गृहं गृहं न भासते। नारी एव स्वकष्टान् विस्मृत्य सर्वेषां सुखाय अहर्निशं प्रयतते। नारी त्यागस्य मूर्तिः अस्ति। सोनिया गांधी महोदयया प्रधानमंत्रिण: पदमपि त्यक्तम् इति सर्वे जानन्ति।
यथा नारी स्वपरिवारस्य हितं वाञ्छति तथा समाजस्य अपि विकासं, कल्याणम् इच्छति। अधुना सा बहुविधेषु क्षेत्रेषु अग्रेसरा अस्ति। सामाजिक कार्येषु तस्याः अधिकार: सर्वे: स्वीकृत:। देशस्य, समाजस्य उन्नत्यै स्त्रीसम्मानम् अपेक्षणीयम्। सर्वे: नारीणाम् आदरः करणीयः। अस्माकं देशे तु नारीणां स्वरूप मातृपदेन गौरवान्वितम्। नारी एव समर्थपुरुषस्य जननी अस्ति। आधुनिके काले ‘न स्त्री स्वातंत्र्य मर्हति’ एतादृशं वाक्यं न उचितम्। अपि तु आधुनीकि नारी विचार स्वातंत्र्यं भाषणस्वातन्त्र्यमपि अर्हति। नारीं विना अयं समाज: अपूर्णः अस्ति, अत एव नारी सम्मानः आवश्यकः।
COMMENTS