वसंत ऋतुः संस्कृत निबंध। Basant Ritu Long Essay in Sanskrit : एकस्मिन् वर्षे षड् ऋतवः आगच्छन्ति। हेमन्तः, शिशिर: वसंत: ग्रीष्मः वषों, शरद् च इति। एतेषां मध्ये वसन्तऋतु: अति मनोहरः अस्ति। सः ऋतुराज; उच्यते। अयं च मधुमास: इत्याभिधानेनापि ज्ञायते। वसन्तः चैत्रवैशाखमासयोः अस्ति। अस्मिन् ऋतो वातावरणं शोभनम् अस्ति, न अधिक शीतलं न चाधिकः घर्मः। न वृष्टिपात: अस्ति, न च हिमपातः भवति। मन्दः शीतलः पवनः वहति। नवानि कुसुमानि विकसन्ति, अमराः कुसुमे गुंजारवं कुवन्ति। अस्मिन् ऋतौ वसुन्धरा मनोहारी रूप धारयति। पक्षिण: मधुरं कलरव कुवन्ति।
वसंत ऋतुः संस्कृत निबंध। Basant Ritu Long Essay in Sanskrit
एकस्मिन् वर्षे षड् ऋतवः आगच्छन्ति। हेमन्तः, शिशिर: वसंत: ग्रीष्मः वषों, शरद् च इति। एतेषां मध्ये वसन्तऋतु: अति मनोहरः अस्ति। सः ऋतुराज; उच्यते। अयं च मधुमास: इत्याभिधानेनापि ज्ञायते। वसन्तः चैत्रवैशाखमासयोः अस्ति। अस्मिन् ऋतो वातावरणं शोभनम् अस्ति, न अधिक शीतलं न चाधिकः घर्मः। न वृष्टिपात: अस्ति, न च हिमपातः भवति। मन्दः शीतलः पवनः वहति। नवानि कुसुमानि विकसन्ति, अमराः कुसुमे गुंजारवं कुवन्ति। अस्मिन् ऋतौ वसुन्धरा मनोहारी रूप धारयति। पक्षिण: मधुरं कलरव कुवन्ति। आम्रवृक्षा: मंजर्यं धारयन्ति। तदा आम्रवृक्षस्य शोभा अपूर्वा वर्तते। तस्य शाखासु पिकाः: कूजनं कुर्वन्ति वसन्तागमनं सूचयन्ति च। अस्मिन् ऋतौ सूर्यस्य आतप: अपि सुखदः भवति। दिवसाः नातिउष्णाः वर्तणी, वसंन्तपचमी उत्सवः अस्मिन्नेव ऋतौ भवति। जनाः वसंतपंचमी दिने पीतवस्त्राणि धारयन्ति, पीतवर्णेन रञ्जितानि मिष्टान्नानि वितरति खादन्ति च। होलिकोत्सवः अपि वसन्तर्तो एव भवति। एष उत्सवः स्नेहवर्धक प्रीतिकारकः च अस्ति। जना: इममुत्सव सोल्लासेन सर्वत्र मानयन्ति।
यथा प्रकृति सर्वत्र रमणीया प्रफुल्लिता भवति तथा मानवशरीरे अपि परिवर्तनं भवति। मनसि आनन्दस्य, उल्लासस्य संचारो भवति। वसन्ते भ्रमणं स्वास्थ्य हितकरं भवति।
कवीनामपि वसन्तऋतु: प्रियः अस्ति। कविकुलगुरुकालिदासेन ‘ऋतुसंहार’ नामकाव्ये वसन्तस्य यथार्थं वर्णनं कृतम्। ईश्वरः अपि अस्मिन् ऋतौ आत्मान प्रकटयति। श्री मद्भगवद्गीतायां श्रीकृष्णः कथयति, 'अहंऋतूनां कुसुमाकर अस्मि।
एवं वसन्त स्वसुषमया सौंदर्येण च सर्वान् आकर्षयति, सर्वान् प्रीणयति च।
COMMENTS